Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशस्य अनेकेषु राज्येषु तापतरङ्गाणां प्रभावः न्यूनीभूत: अस्ति। प्रावृक्पूर्ववृष्ट्या तापमानस्य अधोगति: आरब्धा अस्ति। जलवायुविभागेन (IMD) उक्तं यत् शनिवासरे केवलं ८ नगरेषु दिवसस्य तापमानं ४५ डिग्री वा अधिकं वा आसीत्।

राजस्थान-हरियाणा-छत्तीसगढ-उत्तरप्रदेशेषु तापमानं ३ तः ४ डिग्री सेल्सियसपर्यन्तं अध: गत: अस्ति। अद्य विवासरे दिल्लीसहितेषु देशस्य २७ राज्येषु मेघगर्जनेन सह वर्षा भवितुं सम्भावना वर्तते। अस्मिन् काले प्रचण्डवायुः अथवा धूलिचक्रवातस्य, दक्षिणराज्येषु प्रचण्डवृष्टेः सचेतना वर्तते। केरलनगरे मई-मासस्य ३० दिनाङ्कात् वर्षाकाल: आरब्ध: अभवत्। उत्तरप्रदेश-राजस्थान-गुजरात-मध्यप्रदेश-महाराष्ट्र-छत्तीसगढ़-पश्चिमबंगाल-बिहार-ओडिशा-कर्नाटक-तेलंगाना-हिमाचलप्रदेश-उत्तराखंड-पंजाब-हरियाणा-दिल्ली-तमिलनाडु-केरल-आंध्रप्रदेश-झारखंड-अरुणाचल- प्रदेश-असम-मेघालय-नागालैण्ड-मणिपुर-मिजोरम-त्रिपुरा-राज्येषु चक्रवातस्य वर्षाया: च सम्भावना वर्तते।

चित्रम् - प्रतीकात्मकम्

अद्यतनवार्ता

भारतम्

विश्वम्