Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे केनेडादेशस्य ब्रैम्पटननगरे हिन्दुसभामन्दिरं आगतानां जनानां उपरि खालिस्तानीसमर्थकाः आक्रमणं कृतवन्तः। आक्रमणकारिणां हस्तेषु खालिस्तानध्वजाः आसन्। ते मन्दिरे उपस्थितान् जनान् यष्टिभिः आक्रमितवन्तः। अस्या: घटनायाः चलचित्रं सामाजिकमाध्यमेषु प्रसरितमस्ति। केनेडादेशस्य प्रधानमन्त्री जस्टिनट्रुडो इत्यनेन घटनायाः निन्दा कृता अस्ति। विपक्षनेता पियरे-पोइलिव्रे इत्यनेन उक्तं यत् एतादृशानि आक्रमणानि सर्वथा अस्वीकरणीयानि सन्ति। सर्वे केनेडादेशिनः शान्तिपूर्वकं स्वधर्मस्य आचरणं कुर्वन्तु।

नैषा प्रथमा घटना। पूर्वेऽपि नैकेषु मन्दिरेषु खालिस्तानसमर्थकै: आक्रमणानि कृतानि। 

अद्यतनवार्ता

भारतम्

विश्वम्