सर्वोच्चन्यायालयेन अद्यैव उक्तं यत् हिन्दुविवाहाधिनियमानुसारं विवाहाय न केवलं प्रमाणपत्रं पर्याप्तम्, अपितु विवाहसमारोहस्य, परम्पराया: च सम्यक् अनुसरणं करणीयम्। यदि विवाहे एतादृशस्य आयोजनस्य अभावः भवति तर्हि दम्पतीभ्यां वैवाहिकमान्यतां दातुं न शक्यते। अर्थात् हिन्दुविवाहः तदा एव वैधः इति गण्यते यदा मन्त्रोच्चारपूर्वकं समुदायस्य सन्मुखे अग्ने: पुरतः सप्तपदीप्रदक्षिणा भवति। सर्वोच्चन्यायालयेन विवाहसम्बद्धः महत्त्वपूर्णः निर्णयः दत्तः अस्ति। तदन्तर्गतं हिन्दुविवाहः एकः संस्कारः अस्ति, न तु गीतं, नृत्यं, भोजनं, मद्यपानं, उपहाराणां आदानप्रदानं वा। यदि आवश्यक: विधि: न क्रियते तर्हि हिन्दुविवाहः शून्यः भवति तथा च विवाहपञ्जीकरणं तादृशविवाहस्य प्रमाणीकरणं कर्तुं न शक्नोति। न्यायमूर्तिः बी.. नागरत्ना स्वनिर्णये अवदत् यत् हिन्दुविवाहः एकः संस्कारः अस्ति, यस्य भारतीयसमाजे मूल्यवती संस्थारूपेण प्रमाणीकर्तुं शक्यते। वयं युवकान् युवती: च आग्रहं कुर्मः यत् विवाहसंस्थायां प्रवेशात् पूर्वं तस्मिन् विषये गहनतया चिन्तयन्तु, भारतीयसमाजस्य एषा संस्था कियती पवित्रा इति विचारयन्तु। विवाहः व्यावसायिकव्यवहारः नास्ति।