Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

असमस्य मुख्यमन्त्री हिमन्तबिश्वसरमा इत्यनेन प्रतिपादितं यत् असमदेशे मुसलमानानां जनसंख्या तीव्रगत्या वर्धिता, अधुना ४० प्रतिशतं यावत् अभवत्। मुख्यमन्त्री राञ्चीनगरे उक्तवान् यत्, 'द्रुतरूपेण जायमानं जनसांख्यिकीयं परिवर्तनं मम कृते महत्त्वपूर्ण: विषयः अस्ति। १९५१ तमे वर्षे असमजनसंख्यायाः १२ प्रतिशतं मुसलमानाः आसन्, यत् ४० प्रतिशतं यावत् वर्धितम् अस्ति। अस्माभिः अनेकानि जनपदानि नष्टानि। एषः मम कृते राजनैतिकः विषयः नास्ति अपितु मम कृते जीवनमरणस्य विषयः अस्ति।'

जुलैमासस्य प्रथमदिनाङ्के हिमन्तबिस्वसरमा कस्यापि समुदायस्य उल्लेखं विना उक्तवान् यत्, 'एकः वर्ग: अपराधिकक्रियासु लीनः भवति। एषः धर्मविशेषस्य जनानां चिन्ताजनकः विषयः अस्ति। न वदामि यत् केवलमेकधर्मस्य जनाः एतादृशं कार्यं कुर्वन्ति। परन्तु लोकसभानिर्वाचनानन्तरं यत् उत्पन्नं तत् अतीव चिन्ताजनकम् अस्ति। बाङ्गलादेशात् आगत्य भारते निवसन्तः लघुमतीसमुदायस्य जनाः कोंग्रेसपक्षाय मतदानं कृतवन्तः। एते जनाः केन्द्रराज्यसर्वकाराभ्यां कृता: विकासकार्यक्रमाः अपि न अवलोकिता:।

अद्यतनवार्ता

भारतम्

विश्वम्