Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कतिपयदिनेभ्य: पूर्वं तप्ततापै: तप्तायां देहल्यां जलनिमित्तं संघर्ष: चलति स्म परन्तु अद्य पर्जन्यप्रसादेन देहल्यां सर्वत्र जलं अस्ति। विगत २४ घण्टासु दिल्लीनगरे २२८.१ मि.मी.तः अधिका वर्षा अभवत्। पूर्वं १९३६ तमे वर्षे जूनमासे २३५.५ मि.मी. वर्षा जाता अस्ति। जलवायुविभागेन आगामिदिनद्वयस्य पीतसचेतनायाः घोषणा कृता अस्ति। ल्युटियन्स् इति क्षेत्रे यत्र सांसदाः, मन्त्रिणः, वरिष्ठाः अधिकारिणः च निवसन्ति, तत्र अपि सर्वं जलमग्नमासीत्। शुक्रवासरे प्रातः ३ वादनात् वर्षा आरब्धा आसीत् येन सम्पूर्णं दिल्ली-एनसीआर-क्षेत्रं जलमग्नं जातम्। 

अद्यतनवार्ता

भारतम्

विश्वम्