Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अस्मिन् वर्षे फेब्रुवरीमास: १८७७ तमवर्षात् परं सर्वाधिक: उष्णतम: आसीत्। २०२३ तमस्य वर्षस्य फेब्रुवरीमासे देशे दिवसस्य तापमानं २९.५४ डिग्री सेल्सियस् इति प्राप्तम्, यत् सामान्यतः १.७४ डिग्री अधिकं (२७.८ डिग्री) अस्ति । ततः पूर्वं २०१६ तमे वर्षे फेब्रुवरीमासे औसततापमानं २९.४८ डिग्री आसीत् । वातावरणविभागस्य वैज्ञानिक: एस.सी. भानः अवदत् यत् फेब्रुवरीमासे न्यूनवृष्ट्या:, स्वच्छाकाशस्य, चक्रवातविरोधीपरिसञ्चरणस्य च कारणेन तापमाने वृद्धिः अभवत्। केन्द्रसर्वकारेण पूर्वमेव तापाधिक्यस्य पूर्वसूचना प्रसारिता अस्ति। आतपे निर्जलीकरणं सम्भवति अतः जलं, नारिकेलजलं, निम्बूकं च निरन्तरं पानीयम्। अपराह्णे १२ वादनतः ३ वादनपर्यन्तं बहिः गन्तुं परिहरन्तु। बालकान् एकान्ते याने न त्यजन्तु।

अद्यतनवार्ता

भारतम्

विश्वम्