शेखहसीनायाः आवामीलीग इति दलेन बाङ्ग्लादेशे पुनश्च विजयः प्राप्तः। रविवासरे आगतेषु परिणामेषु एतस्य उद्घोषणा जाता। एतस्मिन् निर्वाचनसमये राजकीयहिंसायां सप्तदशजनानां मृत्युः अभवत्। आहत्य त्रिशत-स्थानेषु षड्षष्ट्युत्तरैकशतस्थानानि आवामीलीगदलेन जीतानि। जतिया सहायकदलेन एकविंशतिषु स्थानेषु विजयः प्राप्तः आसीत्।