चैत्रमासस्य शुक्लपक्षस्य प्रतिपदातिथिः प्रथमं दिनम् अद्य। अस्मिन् दिने एव ब्रह्मणा सृष्टेः विकासस्य आरम्भः कृत:। आरम्भस्य दिवस: इत्यतः प्रतिपदा अर्थात् प्रथमं सोपानं पदं वा। भारतीयकालगणना सम्पूर्णा वैज्ञानिकी अस्ति। आधुनिक वैज्ञानिका: अपि अधुना ब्रह्माण्डस्य उत्पत्तिकालः भारतीयज्योतिषशास्त्रे यथा कथितं तथा मन्यन्ते। अयं दिवसः 'नव संवत्सर' अथवा 'नव संवत्' इति नाम्ना अपि ज्ञायते।
चैत्रे मासि जगद् ब्रह्मा ससर्ज प्रथमेऽहनि।
शुक्लपक्षे समग्रे तु तदा सूर्योदये सति॥
चैत्रशुक्लपक्षस्य प्रतिपदा वसन्तकाले आगच्छति। शरद: प्रस्थानात् ग्रीष्मस्य आगमनात् पूर्वं वसन्तः चरमस्थाने भवति। अस्मिन् ऋतौ सर्वस्मिन् विश्वे सुन्दरच्छाया प्रसरति । शुक्लप्रतिपदादिनात् चित्रनक्षत्रद्वारा चन्द्रस्य उदयः आरभ्यते, अतः मासोऽयं चैत्रमासः। भारतं कृषि-आधारितः देशः अस्ति। सर्वेषामपि ऋतूनां आनन्दं अत्र अनुभवितुं शक्यते। अतः मासोऽयं प्रकृतिदृष्ट्या, कृषिदृष्ट्या च महत्त्वपूर्णः विद्यते।
अयं उत्सवः आन्ध्रप्रदेशकर्नाटकयोः 'उगादी', महाराष्ट्रे च 'गुडीपडवा' इति नाम्ना आचर्यते। ’युगादि’ इत्यस्य एव अपभ्रंशरूपं ’उगादि’ इति। गुजराते चैत्रनवरात्रस्य पूजा अपि भवति। विक्रमादित्यद्वारा शकानाम् उपरि विजयः, शालिवाहनैः शकानां भारतात् निष्कासनं च अस्मिन् दिने अभवत् अतः स्मृतिरूपेण इदं दिनं उत्सवरूपेण आचर्यते। विजयस्य कारणात् प्रतिपदायां प्रत्येकस्मिन् गृहे 'विजयध्वजाः' 'पाञ्चालिकाः' च स्थापिताः सन्ति। गुडी इत्यस्य अर्थः प्रतीकः ध्वजः वा। कोडु इ कन्नड यस्य अर्थः शिखरः, ऊर्ध्वता, शिखरः, ध्वजः इत्यादयः। मराठीभाषायां अपि कोडी इत्यस्य अर्थः शिखरः, ध्वजः इति। गुडी इत्यस्य हिन्दी-पञ्जाबीभाषायां पतङ्ग इत्यपि अर्थः।
इदं नववर्षं सम्पूर्णे भारते सर्वेषु राज्येषु भिन्ननाम्ना आचर्यते। दिग्-स्थानानुसारं सर्वदा मार्च-एप्रिल-मासयोः एव इयं तिथिः आगच्छति। भारते आचर्यमाणा: गुडी पडवा, होला मोहल्ला, युगादि, विशु, वैशाखी, कश्मीरी नवरेह, उगाडी, चेटीचान्द, चित्रैय तिरुविजाआदयः उत्सवाः अस्मिन् मासद्वये एव मन्यन्ते।