तबलीगी-जमात-मरकझ-इत्यत्र आगतानां जनानां अन्वेषणं कृत्वा विभिन्नेषु एकान्तकेन्द्रेषु स्थापिताः सन्ति येन विषाणुप्रसारः न भवेत् । परन्तु गाझियाबादनगरस्य चिकित्सालये विकृतमनस्काः केचन जनाः तत्र अशोभनीयं वर्तनं कुर्वन्ति । तेषु केचन जनाः उरुकं विनैव भ्रमन्तः सन्ति । अपि च परिचारिकाः प्रति अभद्र-याचनां कुर्वन्ति, अभद्र-संज्ञाः अपि प्रदर्शयन्ति । ते जनाः विकृतगीतानि स्मृत्वा वातावरणं दूषयन्ति । परिचारिकायाः लिखितावेदनस्याधारेण आरक्षिभिः षण्णां विरुद्धं अभियोगः रचितः अस्ति ।
विगतदिनेषु नैकेषु राज्येषु अपि कोरोना-संक्रमितानां परीक्षणं कुर्वतां चिकित्सक-परिचारक-आरक्षकाणाम् उपरि आक्रमणस्य घटनाः अपि जाताः सन्ति ।
आपत्काले भगवद्स्वरूपाणां वैद्यानां परिचारिकाणां च प्रति दुर्व्यवहारः नितरां निन्दनीयः एव ।