Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

समग्रविश्वम् कोरोनासङ्क्रमणकालेऽपि अद्य क्रिसमस् पर्वणि उत्साहिताः सन्ति परन्तु अद्य अन्यः एकः दिनविशेषः अस्ति । अस्मिन् दिने एव भगवता श्रीकृष्णेन युद्धक्षेत्रे अर्जुनाय जीवनस्य लक्ष्यं वर्णयित्वा गीताज्ञानम् दत्तम् । अस्माकं जीवनम् अपि युद्धक्षेत्रम् एव अस्ति। सततं सर्वदा अहर्निशं वयं परिवारे कार्यक्षेत्रे स्वमनसि वा द्वन्द्वम् अनुभवामः । किं कर्तव्यम् इति निर्णेतुं न शक्नुमः वयम् । एतादृशी एव मनोस्थितिः अर्जुनस्य तस्मिन् समये आसीत् । एतस्मिन् समये एव भगवता श्रीकृष्णेन किं कर्तव्यमूढाय अर्जुनाय गीताज्ञानम् दत्तम् । तर्हि आगच्छन्तु जानीमः गीतायाः विषये ।

  • मार्गशीर्षमासस्य एकादशी तिथिः, मोक्षदा एकादशी गीताजयन्ती रूपेण मन्यन्ते।
  • वक्ता – श्रीभगवान् श्रीकृष्णः, श्रोता – किं कर्तव्यमूढः अर्जुनः
  • एतस्मिन् दिने धर्मग्रन्थस्य श्रीमद्भगवद्गीतायाः महर्षेः व्यासस्य च पूजा भवति।
  • गीतायाः योगत्रयम् – ज्ञानयोगः, भक्तियोगः कर्मयोगश्च।
  • सहस्रशः वर्षेभ्यः पूर्वे कथितायाः श्रीमद्भगवद्गीतायाः ज्ञानम् आधुनिकविश्वे अपि तथैव श्रेयस्करम् अस्ति।
  • मृत्युभयः न कर्तव्यः । आत्मा अमरः अस्ति। आत्मा केवलं शरीरं परिवर्तयति।
  • मनुष्यस्य अधिकारः केवलं कर्मणि एव अस्ति। कर्मफलेषु न।
  • मोहत्यागः एव प्रसन्नतायाः मूलम् अस्ति।
  • अर्जुनेन सह हनुमान्, सञ्जयः बर्बरिकः च गीताज्ञानं श्रुतवन्तः।
  • महाभारतस्य भीष्मपर्वणि गीता वर्णिता अस्ति। गीतायां अष्टादश अध्यायाः सप्तशतं श्लोकाः च सन्ति। भीष्मपर्वणः त्रयोविंशतितमात् चत्वारिंशततमाध्यायपर्यन्तं गीताज्ञानम् वर्णितम् अस्ति।
  • गीतायाः गणना प्रस्थानत्रय्यां भवति – गीता, उपनिषद् ब्रह्मसूत्रञ्च।
  • गीतायां 4 पात्राणि सन्ति – अर्जुनः. श्रीकृष्णः, धृतराष्ट्रः सञ्जयः च।
  • विश्वस्य प्रायशः सर्वासु भाषासु गीतायाः अनुवादः प्राप्यते ।
  • विश्वस्य बृहत्तमा गीता देहलीस्थिते इस्कोन मन्दिरे विद्यते । अत्र विद्यमानायाः गीतायाः गात्रं 2.8 मी. परिमितं अपि च तस्य भारः 800 कि.ग्रा. अस्ति।
  • IIT Kanpur आईआईटी कानपुर द्वारा नैकानां गीतानां सङ्कलनं कृत्वा जालपुटः रचितः अस्ति। https://www.gitasupersite.iitk.ac.in
  • भारतस्य पूर्वराष्ट्रपतिः विश्वप्रसिद्धः अवकाशविज्ञानी डॉ.ए.पी.जे.अब्दुलकलामः अपि दैनंदिनजीवने गीतायाः अध्ययनं करोति स्म।
  • अमेरिकादेशस्य प्रसिद्धः भौतिकविज्ञानी अपि च मेनहटन् प्रोजेक्ट् इत्यस्य मुख्यसंयोजकः जे रोबर्ट् ओफेनहेमियर् 1933 तमे वर्षे संस्कृतं गीतां च पठितवान् । ट्रिनीटी न्युक्लियर् टेस्ट् समये सः गीतायाः “दिवि सूर्यसहस्रस्य……” इति श्लोकं स्मरन् भगवतः दिव्यस्वरूपस्य स्मरणं कृतवान्। सः जीवनस्य महत्त्वं युद्धस्य च परिणामं च सः अवगतवान्।
  • विदुषां गणनानुसारं गीतायाः कालः ई.पूर्वे द्वितीयशताब्दीतः पञ्चमी शताब्दी भवितुं शक्नोति।
  • गीतायाः अष्टादशे मोक्षसंन्यासयोगः इति अध्याये सर्वाधिकाः 78 श्लोकाः सन्ति।
  • गीतायाः भगवान् श्रीकृष्णः 574, अर्जुनः 84, सञ्जयः 41 धृतराष्ट्रः च 1 श्लोकान् उक्तवन्तः।
  • छन्दांसि- अनुष्टुप् 645, इन्द्रवज्रा 10, उपेन्द्रवज्रा 4, उपजाति 37, विपरितपूर्वा 4
  • गीतायाः द्वितीयस्य अध्यायस्य सप्तचत्वारिंशततमः श्लोकः सर्वाधिकः प्रचलितः श्लोकः अस्ति । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।२.४७।।
  • उपदेशोऽयं मानवस्वरूपेण कृष्णेन न परन्तु भगवता दत्तः अतः गीतायां श्रीभगवान् उवाच इति दृश्यते । श्रीमद्भगवतः गीतं इति श्रीमद्भगवद्गीता इति नामाभिधानं जातम्।

अद्यतनवार्ता

भारतम्

विश्वम्