Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गणेशचतुर्थी हिन्दुधर्मस्य महत्त्वपूर्णः उत्सवः अस्ति। उत्सवस्यास्य आचरणं १० दिवसान् यावत् भवति। गणेशचतुर्थी भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थीतिथौ आगच्छति। अस्मिन् दिने पार्वतीपुत्रः गणेशः जातः इति धार्मिकमान्यता अस्ति। देशे सर्वत्र गणेशचतुर्थीपर्व आचर्यते। गणानाम् ईश: इति गणेश: अत: स: आदिपूज्य:। स:  सुमुख:, एकदंत:, कपिल:, गजकर्णक:, लम्बोदर:, विघ्ननाशक:, विनायक:, धूम्रकेतु:, गणाध्यक्ष:, भालचंद्र:, गजानन:, गणेश्वर:, गौरीनन्दन:, सिद्धिविनायक:, अष्टविनायक:, बुद्धिपति:, शुभकर्ता:, सुखकर्ता: इत्यादिभि: नामभि: अपि पूज्यते। गणपतिभक्त्या रिद्धे: सिद्धे: च अर्थात् लक्ष्म्या: सरस्वत्या: च युगपत् कृपा प्राप्यते। 

समग्रे भारते एतेषु दिवसेषु उत्सवस्य वातावरणं भवति। गृहेषु वीथीषु वसतिषु देवालयेषु च गणेशस्य स्थापना क्रियते अपि च विविधा: कार्यक्रमा: अपि क्रियन्ते। 

अद्यतनवार्ता

भारतम्

विश्वम्