Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

२०२३ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के प्रातःकाले सियाचीन-हिमशैले भारतीयसेनायाः पटशिविरेषु अग्निः प्रज्वलितः। दुर्घटनायां सैन्यवैदकीयाधिकारी अंशुमानसिंह: अर्पितप्राण: जात:। स: शुक्रवासरे राष्ट्रपतिभवने मरणोत्तरं कीर्तिचक्रेण सम्मानितः। तस्य पत्नी स्मृतिः माता मञ्जुः तत् सम्मानं गृहीतवत्यौ।

सम्मानस्यानन्तरं अंशुमान् सिंहस्य पत्नी उक्तवती  यत् स: अतीव समर्थः आसीत्। सः बहुधा वदति स्म यत् अहं वक्षःस्थले गोलिकं स्वीकृत्य मरणं प्राप्तुम् इच्छामि। अहं सामान्यः इव म्रियमाणः भवितुं न इच्छामि। तया उक्तं यत् अभियान्त्रिकीमहाविद्यालये प्रथमदिने मेलनं जातं तदा प्रथमदृष्ट्या एव स्नेहानुभूति: जाता आसीत्। एकमासानन्तरमेव तस्य चयनं AFMC आर्म्ड फोर्सिस् मेडिकल कोलेज इत्यत्र जातम्। अष्टवर्षाणि यावत् सम्बन्ध: तथेव सुदृढ: जात:। २०२३तमे फरवरीमासे विवाह: जात:। दुर्भाग्येण मासद्वये एव सीयाचीनप्रदेशे तस्य स्थानांतरणं जातम्। जुलाईमासस्य १८ दिनाङ्के रात्रौ दूरवाण्या सुदीर्घवार्ता जाता यत्र आवां ५० वर्षाणां स्वजीवनस्य आयोजनं चिन्तितवन्तौ परन्तु द्वितीयदिने एव तस्य वीरोचितमृत्यो: वार्ता प्राप्ता।

१९ जुलाई २०२३ दिनाङ्के अपराह्ने प्रायः सार्धत्रिवादने सियाचीन हिमशैले भारतीयसेनायाः शस्त्रशिविरे अग्निः प्रज्वलितः येन अन्ये अपि पटवासा: अग्निना गृहीताः तावत् भारतीयसैनिकाः अग्निना व्याप्ताः अभवन्। तस्मिन् समये कप्तानः अंशुमानसिंह: अपि तत्र स्थितः आसीत्। एतादृशे कठिने काले सः शौर्यं दर्शयित्वा सहचराणां प्राणान् रक्षितवान्। तस्मिन् समये सः ज्वलत् शिविरं प्रविश्य चतुर: सैनिकान् बहिः आनयत्। परन्तु स्वयं भृशं दग्धः अभवत्, एतस्मिन् समये सर्वेऽपि दग्धा: सैनिकाः चिकित्सायै चण्डीगढनगरं विमानेन वाहिताः यत्र कप्तानः अंशुमानसिंहः चिकित्सासमये मृतः। वीरभोग्या वसुन्धरा।

अद्यतनवार्ता

भारतम्

विश्वम्