जम्मूकश्मीरस्य पूर्वमुख्यमन्त्रिणोः महबूबामुफ्ती उमर-अब्दुल्ला चानयोः निग्रहणं जातम् । द्वयोः नेत्रोः निग्रहणं कृत्वा तौ हरिसिंहपेलेस इत्यत्र स्थापितौ स्तः । रविवासरे रात्रितः एव स्वगृहे एव तयोः ग्रहणं कृतमासीत् । एतत् सर्वविदितमस्ति यत् अद्य राजसभायां जम्मूकश्मीरपुनर्गठनबिल-२०१९ सर्वकारेण प्रस्तुतम् । एतस्य पक्षे १२५ मतानि विरुद्धे च ६१ मतानि प्राप्तानि । एतस्य विधेयकस्य प्रस्तुतेः पूर्वमेव सर्वकारेण राज्ये सतर्कता विवर्धिता । प्रचुरमात्रायां सुरक्षाकर्मिणां तत्र आयोजनं कृतम् ।