Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शनिवासरे रात्रौ जाते अन्तिमे मेलने भारतीयदलेन दक्षिणाफ्रिकादेश: ७ धावनाङ्कै: पराजित:। भारतेन ७ स्तोभानां कृते १७६ धावनाङ्का: प्राप्ताः। तस्य प्रतिक्रियारूपेण दक्षिण आफ्रिका २० पर्यासेषु ८ स्तोभानां कृते केवलं १६९ धावनाङ्कान् कर्तुं शक्तवान्। विराटकोहली ७६ धावनाङ्कै: उत्तमक्रीडकः रूपेण उद्घोषित:। तेन सह जसप्रीतबुमराहः सम्पूर्णप्रतियोगितायाः श्रेष्ठक्रीडकत्वेन चयनितः।

उत्तमप्रदर्शनकारणात् समग्रदेशे मध्यरात्रौ एव उत्सवस्य वातावरणमासीत्। जना: वीथीषु, मार्गेषु वा एकत्रीभूय आनन्दोल्लासं प्रकटितवन्त:। बी.सी.सी.आई पक्षत: जयशाहेन भारतीयदलाय १२५ कोटिरूप्यकाणां पुरस्कारधनराशि: उद्घोषित: अस्ति। स्पर्धानन्तरं रोहित: विराट: रवीन्द्र: च टी२० स्पर्धायां निवृत्ते: घोषणां कृतवन्त:।  १७ वर्षाणामनन्तरं प्राप्तविजयेन भारतीयदलेन क्रीडकै: च नैके विक्रमा: अर्जिता सन्ति तद्यथा - 

  • टी.२० प्रतियोगिताया: सर्वासु स्पर्धासु विजयं प्राप्तवान् प्रथम: देश:

  • जशप्रीत: प्रथम: भारतीय: क्षेपक: य: आई.सी.सी. प्रतियोगितासु श्रेष्ठक्रीडकत्वेन उद्घोषित: ।

  • रोहितशर्मा टी२० विश्वचषकं प्राप्तवान् ज्येष्ठवयस: प्रथम: दलनायक:। तस्य वय: ३७ वर्षाणि।

  • द्विवारं टी२० स्पर्धायां द्विवारं विजयं प्राप्तवान् तृतीय: देश: (२००७,२०२४) ।

  • रोहित: विराट: च अष्टवारं आई.सी.सी.स्पर्धासु अन्तिमनिर्णाोयकस्पर्धासु क्रीडित्वा प्रथमे क्रमे। द्वितीयक्रमे युवराज: रवीन्द्र:, तृतीये क्रमे रिकीपोन्टिंग

  • रोहित: दलनायकत्वेन प्रथमे क्रमे येन सर्वाधिकं टी.२० अन्ताराष्ट्रियस्पर्धासु विजय: प्राप्त: अस्ति (५० स्पर्धा:)

  • टी.२० विश्वचषकस्पर्धायां सर्वाधिकं “श्रेष्ठक्रीडक:” इति सम्मानं प्राप्तवान् क्रीडक: विराट:। (अश्टवारं)

  • विराट: प्रथम: क्रीडक: येन निर्णायकस्पर्धायां सर्वाधिकं ५०त: अधिका: धावनाङ्का: कृत: (पञ्चवारं)

  • सर्वाधिका: धावनाङ्का: अन्तिमनिर्णायकस्पर्धायां - भारतदेश: १७६/७

अद्यतनवार्ता

भारतम्

विश्वम्