सोमवासरे वृन्दावनस्य गोपीनाथमन्दिरे विधवामातृभिः पुष्पैः गुलालैः च होली-उत्सवः आचरितः। तस्मिन् भागं ग्रहीतुं सहस्राधिकाः देशीयाः वैदेशिकाः च महिलाः प्राप्ताः। वैदेशिकाः पर्यटकाः अवदन् यत्, आश्चर्यं, प्रथमवारं एतादृशं दृश्यं दृष्टं, प्रथमवारं एतादृश: आनन्द: अनुभूतः। गोपीनाथमन्दिरस्य सम्पूर्णः परिसरः गुलालवर्षया पुष्पवर्षया च आच्छादितः जातः।