पहलगाम-आक्रमणस्य निन्दा सम्पूर्णं विश्वं करोति। आतङ्कवादविरुद्धे अस्मिन् युद्धे भारतस्य समर्थनं कर्तुं बहवः देशाः प्रत्यक्षरूपेण आश्वासनं दत्तवन्तः। अस्यां सूचौ एफबीआई-निदेशकस्य काशपटेलस्य नाम अपि योजितम् अस्ति। काशपटेलः प्लेटफॉर्म X इत्यत्र एकं सन्देशं प्रसारितवान् यत्र सः आतङ्कवादस्य घोरनिन्दां कृतवान् अस्ति।तेनोक्तं यत् आक्रमणस्य सर्वेषां पीडितानां प्रति एफबीआई शोकसंवेदनां प्रकटयति। भारतसर्वकाराय वयं पूर्णं समर्थनं दास्यामः। आक्रमणमिदं स्मारयति यत् आतङ्कवादः कियान् भयङ्करः अस्ति । पीडितानां कृते प्रार्थनां कुर्वन्तु इति।