Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरराज्यस्य पहलगामनगरे आतङ्कवादिनाम् आक्रमणस्य विषये देशे सर्वत्र शोकस्य आक्रोशस्य च वातावरणं वर्तते। पूर्वमुख्यमन्त्री तथा जम्मू-कश्मीर-राष्ट्रियसम्मेलनस्य नेता फारूक् अब्दुल्लाह अस्य आक्रमणस्य निन्दां कृत्वा पाकिस्तानं प्रति आक्रोशं प्रकटितवान्। सः अवदत् यत् इदानीं पाकिस्तानेन सह वार्तालापस्य कोऽपि अर्थः नास्ति यतः तै: मानवता हता। हिन्दव:, मुस्लिमाः, सिक्खाः, क्रैस्ता: च सर्वे देशे समाना: सन्ति। दुर्भाग्येन अद्यापि पाकिस्तानं न अवगच्छति यत् तेन मानवतायाः वधः कृतः। यदि तेषां मतमस्ति यत् वयं पाकिस्तानदेशं गमिष्याम: तर्हि एषा दुर्भावना दूरीकर्तव्या। वयं १९४७ तमे वर्षे तै: सह न गतवन्तः, अतः अद्यत्वे अपि किमर्थं गच्छामः? अस्माभिः पूर्वमेव द्विराष्ट्रसिद्धान्तः समुद्रे क्षिप्तः आसीत्। अद्यापि च तत् स्वीकर्तुं न सज्जा:। पूर्वम् अहं सर्वदा तै: सह संभाषणस्य मते आसम्। परन्तु समय: समाप्त:। भारतं बालाकोट् न इच्छति, पाकिस्तानविरुद्धं कठोरतमं प्रत्युत्तरम् इच्छति येन भविष्ये पुनः कदापि एतादृश्य: घटनाः न भवेयु:।

अद्यतनवार्ता

भारतम्

विश्वम्