मानवानां परग्रहेषु अर्थात् बाह्यावकाशीयजीवेषु विशेषरुचिः सर्वदा एव आसीत् । विशाले विश्वे अस्माकं पृथिव्यां एव जीवनं अस्ति इति विश्वासस्य कारणं नास्ति। एतत् प्रमाणयन्तः आविष्काराः च बहुधा भवन्ति। अधुना एव एतादृशः एकः आविष्कारः जात:। अस्य आविष्कारस्य श्रेयः भारतीयवैज्ञानिकाय गच्छति तत् भारतीयानां कृते गौरवस्य विषयः। वैज्ञानिकानां दलेन पृथिव्याः १२० प्रकाशवर्षदूरे एकः ग्रहः आविष्कृतः यः सम्भाव्यतया जीवनस्य समर्थनं कर्तुं शक्नोति। अत्यन्तं दूरस्थस्य बहिर्ग्रहस्य सिंहनक्षत्रे स्थितस्य के२-१८b इति नामकरणं कृतम् अस्ति। अस्याः क्रान्तिकारी आविष्कारस्य नेतृत्वं भारतीयमूलस्य केम्ब्रिजविश्वविद्यालयस्य प्राध्यापकः डॉ. निक्कु मधुसूदनः कृतवान् अस्ति। नासा-संस्थायाः जेम्स् वेब्-अन्तरिक्षदूरदर्शकस्य (JWST) विवरणानाम् उपयोगेन शोधकर्तारः बहिर्ग्रहस्य वायुमण्डले मीथेन्, कार्बनडाय-आक्साइड् इत्यादीनां कार्बन-समृद्धानां अणुनां ज्ञापनं कृतवन्तः, ये जीवनस्य समृद्ध्यर्थं मूलभूताः आवश्यकताः इति मन्यन्ते।