अर्थसङ्कल्पसत्रस्य तृतीयदिनस्य आरम्भात् पूर्वं स्मृतिईरानी राहुलगान्धिनः उपरि आक्षेपं कृतवती। वाक्प्रहारं कुर्वत्या तया उक्तं यत् सः विदेशं गत्वा देशस्य अपमानं कृतवान्, संसदि अनुपस्थितः अभवत्, क्षमायाचनां न कृतवान् इति। पत्रकारसम्मेलने स्मृतिः अवदत् यत् राहुलगान्धिनः प्रधानमन्त्रिणं प्रति द्वेषः अधुना देशद्वेषे परिवर्तितः। अतः प्रत्येकं भारतीयस्य आग्रहः अस्ति यत् सः संसदि क्षमायाचनां कुर्यात्।