ईडी इत्यनेन नेशनल् हेराल्ड्-सम्बद्धे धनशोधनप्रकरणे काङ्ग्रेसनेतॄणां विरुद्धं आरोपपत्रं प्रस्थापितम्। तत्र सोनिया, राहुल:, सैम पिट्रोडा अन्ये च आरोपपत्रे समाविष्टा: सन्ति। ईडी इत्यनेन राउस् एवेन्यू न्यायालये आरोपपत्रं प्रस्थापितम् अस्ति। अस्मिन् प्रकरणे आरोपान-अवलोकनार्थं न्यायालयेन एप्रिलमासस्य २५ दिनाङ्कः श्रवणस्य तिथिः निर्धारिता अस्ति। सोनियागान्धी, राहुलगान्धी च अनयो: विरुद्धं प्रथमवारं आरोपपत्रं प्रस्तावितम् अस्ति। हरियाणादेशे अचलसम्पत्ववहारेण सह सम्बद्धस्य धनशोधनस्य आरोपेण व्यापारिणः काङ्ग्रेससांसदस्य प्रियङ्कागान्धिन: पतिना सह अन्वेषणसंवादानन्तरं आरोपपत्रं प्रस्तावितम् अस्ति।