Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रवर्तननिदेशालयेन (ईडी) मंगलवासरे (१८ मार्च २०२५) जार्ज सोरोस् इत्यनेन समर्थितानां कतिपयानां संस्थानामुपरि आपात: कृत:। ईडी-मुख्यालयेन प्रकाशिते वार्ताविज्ञप्तौ कथितं यत् ईडीएफ-ओपन सोर्स फाउण्डेशन- सहितै: अनेकाभि: संस्थासंस्थाभि: कृतस्य फेमा-उल्लङ्घनस्य अन्वेषणार्थं  बेङ्गलूरुनगरे आहात्य अष्टस्थानेषु आपात: कृत: आसीत्। सोरोस् तस्य ओपन सोसाइटी फाउण्डेशन (ओएसएफ) च गृहमन्त्रालयेन २०१६ तमे वर्षे पूर्वसन्दर्भवर्गे स्थापितौ, येन भारते असर्वकारीयसंस्थाभ्यः अनियमितरूपेण दानं दातुं निषेधः कृतः अस्मात् प्रतिबन्धात् मुक्तिं प्राप्तुं ओएसएफ-संस्थायाः भारते सहायकसंस्था: निर्मिताः, प्रत्यक्षविदेशीयपरामर्श-शुल्क-रूपेण च भारते धनम् आनीतम् इति ज्ञातम् । एतस्य धनस्य उपयोग: अन्याभ्य: संस्थाभ्य: निधिं प्राप्तुं कृत: यत् फेमा-विधे: उल्लङ्घनम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्