Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशे राष्ट्रपतिनिर्वाचनं नवम्बरमासे भविष्यति। समग्रस्य विश्वस्य दृष्टि: अद्यत्वे अस्या: निर्वाचनप्रक्रिया: उपरि स्थगिता अस्ति।  परम्परानुसारम् अद्य शुक्रवासरे अमेरिकादेशे राष्ट्रपतिनिर्वाचनात् ५ मासेभ्य: पूर्वं जो बाइडेन्, डोनाल्ड ट्रम्प चेति द्वयो: मध्ये प्रथमः राष्ट्रपतिविमर्शः अभवत्। रिपब्लिकनपक्षस्य प्रत्याशिन: ट्रम्पस्य डेमोक्रेटपक्षस्य प्रत्याशिन बाइडेनस्य च मध्ये ४ वर्षेषु द्वितीयवारं एष: वादविवादः अभवत्। जॉर्जियादेशस्य अटलाण्टानगरे सीएनएन-संस्थायाः मुद्रणालये एष: वादविवादः अभवत्। इतरथा उभौ नेतारौ ७५ निमेषान् यावत् महत्त्वपूर्णविषयेषु स्वविचारं प्रकटितवन्तौ। उभाभ्यां परस्परं व्यक्तिगतारोपा: अपि कृता:। ट्रम्पद्वारा उक्तं यत् बाइडेन “मंचुरियन्” प्रत्याशी अस्ति य: चीनदेशस्य धनेन कार्यं करोति। तथैव बाइडेनद्वारा उक्तं यत् भोगलिप्त: स: गणिकया सह संसर्गे आसीत् यदा पत्नी गर्भवती आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्