दिल्लीनगरे १५ वर्षत: पुरातनवाहनानां कृते ३१ मार्चतः पेट्रोल-डीजल इति यानतैलं न दास्यन्ते। दिल्लीनगरे वर्धमानं वायुप्रदूषणं नियन्त्रयितुं दिल्लीसर्वकारेण एतत् पदं स्वीकृतम् अस्ति। दिल्लीपर्यावरणमन्त्री मञ्जिन्दरसिंह: सिरसा शनिवासरे एतां घोषणां कृतवान्। सः अवदत्, 'अस्य निर्णयस्य विषये सूचना शीघ्रमेव केन्द्रीयपेट्रोलियममन्त्रालयाय दीयते।' वयं पेट्रोलआपणेषु एतादृशानि उपकरणानि स्थापयामः येन १५ वर्षाणाम् अधिकानां वाहनानां परिचयः भविष्यति। नगरस्य सर्वेषु तुङ्गभवनेषु अतिथिगृहेषु च धुम्मविरोधियन्त्राणि स्थापयितुं अनिवार्यं कृतम् अस्ति। एषः नियमः पूर्वमेव अस्ति। अधुना कठोररूपेण कार्यान्वितं भविष्यति। दिल्लीनगरे प्रायः ९०% सार्वजनिकसीएनजीबसयानानि २०२५ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं व्यवस्थितरूपेण समाप्तानि भविष्यन्ति । तेषां स्थाने विद्युत्बसयानानि भविष्यन्ति।