Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीतः न्यूयोर्कं प्रति एयर-इण्डिया विमानस्य भोजने तैलप: प्राप्तः। घटना १७ सेप्टेम्बर् दिनाङ्कस्य अस्ति। विषयोऽयं इन्स्टाग्रामे पोस्ट् प्रकाशित:। यात्री महिला अवदत् यत् घटनानन्तरम् सा तस्याः २ वर्षीयः पुत्रः च अन्नविषेण पीडितौ जातौ। इदानीं सा एयर इण्डिया-विमानयानेषु यात्रां न करिष्यति इति। एयर-इण्डिया इत्यनेन विषयेऽस्मिन् क्षमायाचना कृता अस्ति। ते विषयस्य अन्वेषणं करिष्यन्ति। भोजनसेवाप्रदातृसमवायेन सह अपि ते वार्तालापं करिष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्