रॉ इति अनुसंधान-विश्लेषणसंस्थायाः विषादग्रस्तेन अधिकारिणा आत्महत्या कृता। आरक्षकैः उक्तं यत् लोधि-कोलोनी-स्थिते रॉ-कार्यालये अनभिज्ञकारणैः दशम-अट्टात् कूर्दितः। एतेन क्षणेनैव तस्य मृत्युः अभवत्। अधिकारी विषादग्रस्तः आसीत्। अस्य प्रकरणस्य अन्वेषणम् आरब्धम् अस्ति।