Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

शनिवासरे प्रातःकाले दिल्ली-एनसीआर-क्षेत्रे वायुगुणवत्तायां महती न्यूनता दृष्टा। वायुगुणवत्तासूचकाङ्कः (AQI) ३०० अङ्क: अतिक्रान्त:। प्रातःकाले आकाशे नीहारः आसीत्, जनानां श्वसनस्य कष्टं भवति स्म। अपरं तु यमुनानद्यां द्वितीयदिनेऽपि विषफेनः दृश्यते। देहल्या: पर्यावरणमन्त्री गोपालरायः अवदत् यत्, वर्धमानशीतस्य कारणेन देहली-एनसीआर-क्षेत्रस्य वायुगुणवत्ता क्षीणा भवति। गतदिनद्वयात् प्रदूषणस्य स्तरः वर्धमानः अस्ति। अस्य कारणात् जनानां कण्ठे वेदना, श्वसनस्य कष्टं, नेत्रेषु दाहः च भवति । तेन सह त्वक्सम्बद्धानां रोगाणामपि समस्या वर्धते ।

अद्यतनवार्ता

भारतम्

विश्वम्