अरविन्द केजरीवालस्य निर्वाचनघोषणाद्वयं दिल्लीसर्वकारेण उत्क्षिप्तम्। राज्ये महिलासम्मान-संजीवनी-सदृशी योजना नास्ति इति बुधवासरे सर्वकारस्य विभागद्वयेन वृत्तपत्रेषु विज्ञापनं प्रकाशितम्। महिला-सम्मान-योजनाया: सम्बन्धे महिलाबालविकासविभाग द्वारा प्रथम विज्ञापनं प्रकाशितं तत्र उक्तं यत् दिल्लीसर्वकारेण एतादृशी सूचना न प्रकाशिता। द्वितीयं विज्ञापनं दिल्लीनगरस्य स्वास्थ्यपरिवारकल्याणविभागेन संजीवीयोजनायाः विषये प्रकाशितम्। एतादृशी योजना सर्वकारः न चालयति इति उक्तम् अस्ति। एतस्मिन् विषये केजरीवालः पत्रकारसम्मेलनं कृत्वा एतस्या: घटनाया: उत्तरदायित्वेन दिल्लीनगरस्य एलजी उद्घोषितवान् अपि च मु.म. आतिशी उक्तवती यत् ये अधिकारिणः वृत्तपत्रेषु विज्ञापनं दत्तवन्त: तेषां विरुद्धं कार्यवाही भविष्यति।