अनेकदेशानां मध्ये युद्धस्य अवस्थासमये सैन्यक्षमतायाः दृष्ट्या विश्वस्य कः देशः सर्वाधिक: शक्तिशाली अस्ति इत्यस्मिन् विषये प्रतिवेदनं प्रकाशितम् अस्ति यस्मिन् अमेरिकादेशः सर्वाधिकशक्तिशालिदेशानाम् सूच्यां प्रथमस्थाने रुसदेश: द्वितीये चीनदेश: च तृतीयस्थाने, भारतीयसेना चतुर्थस्थाने च समाविष्टा: सन्ति।
अमेरिकनसेनायाः सैनिकानाम् संख्या भारतीयसेनायाः अपेक्षया अपि न्यूना अस्ति। परन्तु अस्य अधिकानि शस्त्राणि सन्ति इति कारणेन सः शीर्षस्थाने एव स्थित:। विश्वस्य सर्वाधिकशक्तिशालिनः सैन्यदले पाकिस्तानस्य स्थानं नवमम् अस्ति। अमेरिकादेशे २१,२७५०० सैनिकाः, १३,२०९ विमानानि, ४६५७ युद्धपोता:, रूसदेशे ३५,७००० सैनिकाः, ४,२२५ विमानानि, १४,७७७ युद्धपोता: च सन्ति। चीनदेशे ३१,७००० सैनिकाः, ३,३०४ विमानानि, ५ सहस्राणि युद्धपोता:, भारते ५१,३७५५० सैनिकाः सन्ति ये सर्वाधिकं मन्यन्ते, २,२१६ विमानानि, ४६१४ युद्धपोता: च सन्ति ।