बङ्गखाते उत्पन्नः फेंगलचक्रवात: अद्य चक्रवातरूपेण परिणतः अस्ति। आगामिदिनद्वये तमिलनाडुदेशं प्रति गमिष्यति। जलवायुविभागस्य अनुसारम् अस्मिन् काले वायुवेग: ७५-८० कि.मी. भवितुं शक्नोति। चक्रवातकारणात् ६ मण्डलेषु विद्यालयाः महाविद्यालयाः च पिहिता: सन्ति। मंगलवासरे चेन्नैनगरे ७ विमानयानानि विलम्बितानि आसन्। अस्य प्रभाव: तमिलनाडुराज्येन सह आन्ध्रप्रदेश-केरल-राज्ययो: अपि भविष्यति।