केन्द्रीय-आरक्षित-आरक्षक-बलस्य (सीआरपीएफ) प्रवेशपरीक्षायां केवलं हिन्दी-आङ्ग्लभाषयोः प्रयोगे तमिलनाडु-तेलाङ्गाना-देशयोः नेतारः आपत्तिं प्रदर्शितवन्तः। तदनु सीआरपीएफ-पक्षेण स्पष्टीकरणं कृतम्।
९,२१२ पदानाम् कृते सीआरपीएफ इत्यस्य प्रवेशपरीक्षापत्रस्य भाषायां कन्नडभाषायाः उपेक्षा कृता इति मत्वा केन्द्रसर्वकारस्य आलोचना राज्यनेतृभिः कृता।
केन्द्रीय-आरक्षित-आरक्षक-बलस्य (सीआरपीएफ) पक्षतः उक्तं यत् पूर्वं प्रचलितायाः प्रादेशिकभाषायाः परीक्षापत्रात् कथितरूपेण निष्कासनस्य चर्चा सर्वथा निराधारा अस्ति। सीआरपीएफ इत्यनेन कदापि पूर्वेऽपि आन्तरिकनियुक्त्यर्थं क्षेत्रीयभाषासु लिखितपरीक्षा कृता नास्ति। अतः पत्रस्य भाषाभ्यः कन्नडभाषा निष्कासिता इति वक्तुं सर्वथा अनुचितम्।