कोरोनारोगस्य वर्धमानप्रकरणानाम् मध्ये केन्द्रेण षट्भ्यः राज्येभ्यः पत्रं लिखितम् अस्ति। पत्रमिदं महाराष्ट्र-गुजरात-तेलङ्गाना-तमिलनाडु-केरल-कर्णाटकेभ्यः प्रेषितम् अस्ति। केन्द्रेण एतेभ्यः राज्येभ्यः कोरोना-रोगस्य वर्धमान-प्रकरणानाम् नियन्त्रणं कर्तुं उक्तमस्ति। अस्य कृते परीक्षणं, अनुसरणं, सूच्यौषधं च इत्यस्मिन् विषये ध्यानं दातुं उपदिष्टम् अस्ति। भारतं विहाय चीन, सिङ्गापुर, अमेरिका इत्यादिषु विभिन्नेषु देशेषु अयं नूतनः प्रकारः तीव्रगत्या प्रसृतः अस्ति । टीओआइ इत्यस्य प्रतिवेदनानुसारं कोविड्-१९ इत्यस्य एतत् रूपं नूतनतरङ्गस्य सम्भावना वर्धयितुं शक्नोति।