Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रवर्तननिदेशालयेन मंगलवासरे काङ्ग्रेसस्य नेशनल् हेराल्ड् वृत्तपत्रेण एसोसिएटेड् जर्नल्स् लिमिटेड् (एजेएल) च सम्बद्धे धनशोधनप्रकरणे प्रथमं आरोपपत्रं प्रस्तुतम्। अस्मिन् सोनिया गान्धी, राहुलगान्धी, सैम पित्रोडा, सुमन दुबे च इति नामानि अन्तर्भवन्ति। अस्य विरोधे अद्य (बुधवासरे) देशे सर्वत्र ईडी-कार्यालयेभ्य: बहिः कार्यकर्तार: विरोधं कुर्वन्त: सन्ति। दिल्लीनगरे दलस्य मुख्यालयस्य सम्मुखे विरोधं कुर्वन्तः कार्यकर्तारः दिल्लीपुलिसद्वारा निरुद्धाः सन्ति। 

अस्य प्रकरणस्य वादश्रवणं २५ एप्रिल दिनाङ्के दिल्लीनगरस्य राउस् एवेन्यू न्यायालये भविष्यति। न्यायालयेन ईडी इत्यस्मात् प्रकरणस्य केस डायरी अपि याचिता अस्ति। २०१२ तमे वर्षे भाजपानेता सुब्रमण्यमस्वामिना सोनिया, राहुलः, तेषां सहकारिकम्पनीभिः सह सम्बद्धानां जनानां विरुद्धं च अस्मिन् विषये आक्षेप: कृत: आसीत्। मङ्गलवासरे सांसदप्रियङ्कागान्धिन: पतिः रोबर्ट् वाड्रा प्रवर्तननिदेशालयस्य (ईडी) कार्यालयं प्राप्तवान्। गुरुग्रामस्य शिकोपुरभूमिप्रकरणे तेन सह प्रश्नोत्तरं जातम्। ईडी आरोपयति यत् काङ्ग्रेसनेतृभिः षड्यंत्रस्य भागरूपेण एसोसिएटेड् जर्नल्स् लिमिटेड् (एजेएल) इत्यस्य अधिग्रहणं कृत्वा निजीस्वामित्वयुक्तायाः कम्पनीयाः 'यंग इण्डियन' इत्यस्य माध्यमेन केवलं ₹50 लक्षं मूल्येन ₹2,000 कोटिरूप्यकाणां सम्पत्तिः अधिगृहीता। अस्य समवायस्य ७६% भागः सोनिया-राहुलयो: स्वामित्वे अस्ति। अस्मिन् प्रकरणे ‘अपराधात् प्राप्त: आय: ९८८ कोटिरूप्यकाणि सन्ति इति मन्यते स्म। अपि च, तत्सम्बद्धानां सम्पत्तिनां विपण्यमूल्यं ५,००० कोटिरूप्यकाणि भवति।

अद्यतनवार्ता

भारतम्

विश्वम्