Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

२२ दिनाङ्के अयोध्यायां राममन्दिरप्राणप्रतिष्ठाकार्यक्रम: निर्धारित: अस्ति। तदर्थं सिद्धता अन्तिमस्तरे प्रचलति। कार्यक्रमेऽस्मिन् भागं ग्रहीतुं न्यासद्वारा प्रत्येकं पक्षस्य अध्यक्षाय आमन्त्रणं दत्तम् अस्ति। कोंग्रेसपक्षय अध्यक्षाय मल्लिकार्जुनखडगे संसदीयदलस्य अध्यक्षा सोनियागान्धी लोकसभाया: कोंग्रेसपक्षस्य नेता अधीररञ्जन चेत्येतेभ्य: अपि आमन्त्रणं दत्तोमसीत् परन्तु दलेन आधिकारिकं वक्तव्यं प्रसारितं यत् राममन्दिरप्राणप्रतिष्ठायाः आमन्त्रणम् आदरपूर्वकम् अस्वीकृतम् अस्ति। कोंग्रेसदलत: एकोऽपि नेता  22 जनवरी दिनाङ्के अयोध्यायां आयोजिते कार्यक्रमे न भागं न स्वीकरिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्