पहलगाम-आक्रमणस्य विषये नैके कोंग्रेसनेतार: विवादास्पदनिवेदनानि यच्छन्त: सन्ति। अस्मात् कारणात् कोंग्रेस-अध्यक्षः मल्लिकार्जुन-खडगे, सांसद: राहुलगान्धी च अपि स्वस्य अप्रसन्नतां प्रकटितवन्तौ, सर्वेभ्यः नेतृभ्य: च अस्मिन् विषये अयोग्यवक्तव्यं न दातुं कठोररूपेण आदेशं दत्तवन्तौ, अन्यथा तेषां विरुद्धं कार्यवाही भवितुं शक्नोति।
कोंग्रेसस्य महासचिवः जयराम रमेशः अपि दलनेतॄणां विवादास्पदवक्तव्येषु स्पष्टं कृतवान् यत् विभिन्ननेतृभिः क्रियमाणानि वक्तव्यानि व्यक्तिगतरूपेण सन्ति। यस्य उत्तरदायित्वं पक्षः न गृह्णाति।