लोकसभानिर्वाचनस्य कृते निर्वाचनासनानां विभाजनस्य प्रक्रिया I.N.D.I.A. युतिद्वारा जायमाना अस्ति। स.पा.प्रमुखः अखिलेशयादवः कोंग्रेसदलेन सह आसनविभाजनम् अन्तिमरूपेण कृतवान् स्यात्, परन्तु कोंग्रेसदलेन कृते इदं सुखदं नास्ति। अखिलेशयादवेन प्रक्रियायामस्यां स्वस्य प्रभाव: प्रदर्शित: अस्ति। इदानीं युते: समीकरणानि व्याख्याय मूलकार्यकर्तृणां उत्साहं वर्धयितुं प्रयतमान: कोंग्रेसपक्षः स्वस्य वरिष्ठनेतॄणां विरोधस्य आस्वादमपि कर्तुं शक्नोति।