Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आमआदमीपक्षस्य प्रतिनिधिमण्डलस्य बुधवासरे निर्वाचनायोगेन सह मेलनं जातम्। दिल्लीनगरे विधानसभानिर्वाचनात् पूर्वं मतदातासूचितः जनानां नामानि बृहत्प्रमाणेन निष्कासितानि इति आपदलेन आक्षेप: कृत: अस्ति। निर्वाचनं प्रभावितुं भाजपा मतदातॄणां नामानि निष्कासयति इति। अत्र दलितजना:, अविकसिता:, पूर्वाञ्चलस्य जनाः च सन्ति। निर्वाचनायोगेन एतदर्थम् आश्वासनं दत्तम्। आयोगेनोक्तं यत् सत्यापनं विना मतदातॄणां सूचितः नामानि सत्यापनं विना निष्कासितानि न भविष्यन्ति इति। अत्र पुनश्च प्रश्न: उद्भवति यत् निर्वाचनायोगस्य विरुद्धं मतदानयन्त्राणां विषये अपि प्रश्ना: जाता: सन्ति। यदि पक्षस्य विजय: भवति चेत् यन्त्राणि समीचीनानि, यदि पराजय: तर्हि यन्त्राणां षड्यन्त्रम् !! निर्वाचनायोगस्य कार्ये आक्षेप: किम् राजनीति: अस्ति वा सत्यं ? किम् आपदलेन आगामिनिर्वाचने स्वपराजयं कल्पित: अस्ति? समय: एव उत्तरम्  

अद्यतनवार्ता

भारतम्

विश्वम्