अद्य प्रातः दिल्लीसहितं उत्तरभारते पुनः शैत्ये वृद्धिः अभवत्। ऋतुविज्ञानविभागस्य सूचनानुसारं दिल्लीसहितं उत्तरभारते पुनः एकवारं लघुवृष्टेः सम्भावना वर्तते, अस्मात् कारणात् तत्र पुनः शीतप्रकोपः भवितुम् अर्हति।
प्राप्तसूचनानुसारं पश्चिमहिमालयक्षेत्रे २९, ३० च दिनाङ्कयोः वर्षायाः हिमपातस्य च लक्षणानि दृश्यन्ते। तस्य प्रत्यक्षः प्रभावः उत्तरभारते शैत्यवृद्धिरूपेण भविष्यति। एतदतिरिक्तं दिल्लीसहितेषु समतलक्षेत्रेषु एतयोः दिवसयोः लघुवृष्टिः वा मेघाच्छादितवातावरणं वा भवितुं शक्यते।