चीनदेशस्य तटरक्षकपोतेन अद्य अवैधरूपेण विवादास्पदं शोल क्षेत्रं प्रविश्य फिलिपिन्सदेशस्य त्रयाणां पोतानां उपरि जलप्रहार: कृत:। अपि च चीनदेशस्य पोतेन फिलिपिन्सदेशस्य पोतेन सह सङ्घट्टनमपि कृतम्। एतेन फिलिपिन्सदेशस्य पोतस्य यन्त्रं नष्टमपि जातम्। पोतस्य सङ्घट्टनस्य अनन्तरं द्वयोः देशयोः सैनिकयोः मध्ये संघर्षः अभवत्। एतत् सर्वविदितमस्ति यत् चीनदेशस्य नैकै: देशै: सह विवाद: प्रचलति।