Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पुनः समीपस्थे चीनदेशे एकः मन्त्री अदृश्यः जात:। मासद्वयं यावत् स: दृश्यमान: न जात: ततः परं शी जिनपिङ्ग् इत्यनेन स्वस्य उद्योगसूचनाप्रौद्योगिकीमन्त्री जिन् झुआङ्गलोङ्गः स्वपदात् निष्कासितः। जिन् ज़ुआन्लोङ्गः अन्तिमवारं २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के सार्वजनिकरूपेण दृष्टः। अस्मिन् समये सः राष्ट्रपते: शी जिनपिङ्गस्य नूतनस्य औद्योगीकरणनीतेः प्रशंसार्थं सभायाः अध्यक्षतां कृतवान्। सः देशे विमानन-उद्योगस्य प्रचारार्थं प्रसिद्धः अस्ति।

चीनदेशं प्रौद्योगिकीमहाशक्तिं करणाय स्वस्य भूमिकायाः ​श्रेयः झुआङ्गलोङ्गः प्राप्तवान् अस्ति। समाचारसंस्थायाः प्रतिवेदने उक्तं यत् चीनसर्वकारेण शुक्रवासरे सायंकाले घोषितं यत् झुआङ्गलोङ्गः स्वपदात् निष्कासितः अस्ति, तस्य स्थाने ली लेचेङ्ग् नियुक्तः च।

अद्यतनवार्ता

भारतम्

विश्वम्