Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य द्वारकानगरस्य तटीयक्षेत्रेषु चराणां पूर्वं दृश्यमानानां प्रकरणानाम् अवलोकनेन जिलापुलिसप्रमुखेन पुलिसदलानां माध्यमेन तटीयक्षेत्राणां पर्यवेक्षणकार्यक्रमाः कृताः। अस्मिन् कार्यक्रमे मीठापुरे मोजपग्रामस्य तटीयक्षेत्रे मिठापुरपुलिसकर्मचारिभिः एसआरडी-दलेन च चरस् इत्यस्य २१ पोट्टलिका: प्राप्ता:। समुद्रतटतः अवैधरूपेण २३.६८ किलोग्रामभारस्य चरस् ज्ञात्वा आरक्षकै: प्रायः १२ कोटिरूप्यकाणां चरस गृहीत्वा अग्रिमकार्य्मारब्धम्। एतत् सर्वविदितमस्ति यत् पाकिस्तानत: गुजरातस्य समुद्रमार्गेण पूर्वेऽपि आतङ्कवादिन: मादकद्रव्याणि च प्रेष्यन्ते।

अद्यतनवार्ता

भारतम्

विश्वम्