Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सर्वोच्चन्यायलयेन तिरुपतिमोदकप्रकरणे आन्ध्रपदेशस्य मुख्यमन्त्रिण:उग्रतया तर्जनं कृतमस्ति। नायडुद्वारा मिश्रणयुक्तस्य घृतस्य प्रयोग: मोदके भवति इति प्रतिपादनं कृतमासीत्। सर्वोच्चन्यायालयेन कठोरतया उक्तं यत् मोदकनिर्माणे मिश्रणयुक्तस्य घृतस्य प्रयोग: जात: अस्ति इत्यस्य आधार: क:? कि तस्य प्रमाणानि सन्ति? संविधानस्य पदस्थाने उपविष्टानां जनानां उत्तरदायित्वं अपेक्षितम्। सः सार्वजनिकरूपेण एतादृशं वचनं विना कस्यापि पुष्टिं न कुर्यात्। तस्य तादृशवाक्यात् कोटिजनानां भावनासु दुष्प्रभाव: उद्भवति।

अद्यतनवार्ता

भारतम्

विश्वम्