चीनदेशे उइगरमुसलमानानां प्रति कथं व्यवहारः क्रियते इति समग्रं विश्वं जानाति। चीनदेशस्य मुसलमानानां उपरि क्रियमाणानां एतेषां अत्याचाराणां विरुद्धं ५१ देशाः एकीकृताः सन्ति। तै: संयुक्तराष्ट्रसङ्घस्य महासभायां संयुक्तवक्तव्यं प्रकाशितम् अस्ति। एते ५१ देशाः चीनविरुद्धं हस्ताक्षरं कृतवन्तः। ध्यानास्पदं यत् पाकिस्तानस्य नाम तेषु ५१ देशेषु नास्ति। सम्पूर्णं इस्लामिकदेश: पाकिस्तानदेश: समग्रे विश्वे मुसलमानानाम् अधिकाराणां विषये वदति, परन्तु चीनदेशे उइगरमुसलमानानाम् उपरि क्रियमाणानां अत्याचाराणां विषये किमपि वक्तुं साहसं नास्ति।