केन्द्रीयमार्गपरिवहनमन्त्री नितिनगडकरी देशे सर्वत्र यात्रिकाणां कृते टोल्प्लाजासमस्याया: मुक्तये महतीं घोषणां कृतवान्। सः अवदत् यत्, "केन्द्रसर्वकारः देशस्य सर्वेभ्यः टोल्-प्लाजा-स्थानानि हर्तुं शीघ्रं कार्यं कुर्वन् अस्ति, शीघ्रमेव नूतना मार्गशुल्कनीतिः प्रवर्तयिष्यते" इति। मुम्बईनगरस्य दादरक्षेत्रे आयोजिते कार्यक्रमे तेनोक्तं यत् आगामिषु १५ दिनेषु नूतना नीतिः घोषिता भविष्यति। यद्यपि सः नीतेः विषये टिप्पणीं न कृतवान् तथापि नूतननीतेः घोषणामात्रेण टोल्सम्बद्धाः सर्वाः समस्या: समाप्ताः भविष्यन्ति इति अपि सः अवदत्।