बालासोर-रेलत्रय-दुर्घटनायाः अन्वेषणं कुर्वत्या सीबीआइ-संस्थया एकस्य कनिष्ठ-अभियन्तु: पृच्छा कृता आसीत्। काश्चन वार्ताप्रसारणसंस्था: प्रतिपादितवत्य: यत् कनिष्ठः अभियन्ता प्रश्नोत्तरस्यानन्तरं पलायितः अस्ति। विषयेऽस्मिन् दक्षिणपूर्व रेलवे इत्यस्य सीपीआरओ आदित्यकुमारचौधरी इत्यनेन एतत् प्रतिवेदनं अयोग्यम् अस्ति। अस्माकं सर्वेऽपि कर्मचारिणः उपस्थिता: सन्ति, अन्वेषणे च सहकार्यं कुर्वन्ति।