Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य १८ तमलोकसभायाः अर्थसंकल्पसत्रस्य प्रथमदिनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी सत्रस्य आरम्भात् पूर्वं सञ्चारमाध्यमान् सम्बोधितवान्। तेनोक्तम् - अस्मिन् सत्रे बहवः ऐतिहासिकविधेयकाः प्रस्ताविताः भविष्यन्ति। प्रत्येकं महिला सम्माननीयं जीवनं प्राप्नुयात् इति सुनिश्चित्य अस्मिन् सत्रे बहवः महत्त्वपूर्णाः निर्णयाः गृहीताः भविष्यन्ति। वयं शोधनं, प्रदर्शनं, परिवर्तनं च करिष्यामः। राष्ट्रपति: द्रौपदी मुर्मू अद्य प्रातः ११ वादने संसदस्य द्वयोः सदनयोः सम्बोधनं करिष्यति। तदनन्तरं वित्तमन्त्री निर्मला सीतारमण आर्थिकसर्वक्षणं प्रस्तुतं करिष्यति। सत्रस्य द्वितीयदिने अर्थात् १ फरवरी दिनाङ्के वित्तमन्त्री निर्मला सीतारमणः १८ तमलोकसभायाः मोदिसर्वकारस्य तृतीयकार्यकालस्य प्रथमं अर्थसंकल्पं प्रस्तुतं करिष्यति। एतत् सीतारमणस्य वित्तमन्त्रित्वेन अष्टम: अर्थसंकल्प: भविष्यति। 

अद्यतनवार्ता

भारतम्

विश्वम्