Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरस्य पहलगामनगरे आतङ्कवादिनाम् आक्रमणे हिन्दूनां वधस्य न केवलं भारते अपितु विदेशेषु अपि गभीराः प्रभावाः अभवन्। पहलगामनगरे हिन्दूनां हत्याया: विरोधार्थं शुक्रवासरे सायं ब्रिटेनदेशस्य लन्दन्-नगरे पाकिस्तान-उच्चायोगात् बहिः भारतीयमूलस्य बहुसङ्ख्यका: हिन्दुजनाः एकत्रिताः आसन्। अस्मिन् समये पाकिस्तानमूलस्य नागरिकाः अपि भारतविरोधिप्रदर्शनानि कर्तुं आगतवन्तः, येन उभयो: देशयो: जना: सम्मुखम् आगता:। अस्मिन् समये पाकिस्तान-उच्चायोगस्य एकस्य अधिकारीणः एकं चलचित्रं प्रसरितं यत्र उच्चायोगस्य अधिकारी तैमुरराहत: भवनस्य गवाक्षात् अभिनयेन शिरच्छेदनस्य भर्त्सनं दत्तवान्। स: लज्जाहीन: अधिकारी भारतीयसैनिकस्य अभिनन्दनस्य चित्रेण सह अन्यत् चित्रमपि प्रदर्शितवान् यत्र लिखितमासीत् यत् पाकिस्तानं काश्मीरजनै: सह अस्ति।  एतेन पाकिस्तानस्य मानसिकता स्पष्टाभवति। 

अद्यतनवार्ता

भारतम्

विश्वम्