Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभा २०२४ परिणामेषु उत्तरप्रदेशे राममन्दिरस्य निर्माणानन्तरं रामलालाप्रतिष्ठायाः च अनन्तरं हिन्दुमतानां बहुमतं प्राप्तुं आशां कुर्वन् भाजपद्वारा केवलं ३३ आसनानि एव प्राप्तानि। गतलोकसभायां ६२ आसनानि प्राप्तवत: भारतीयजनतापक्षस्य महती हानिः अभवत्। अस्मिन् विषये राजनैतिकविशेषज्ञाः मन्यन्ते यत् अस्मिन् लोकसभानिर्वाचने ७० तः अधिकानि आसनानि प्राप्यन्ते चेत् मुख्यमन्त्रिण: परिवर्तनस्य दलस्य तथाकथितयोजनायाः विवादेन दलस्य दुर्दशा अभवत्।

राजनैतिकस्रोतानां अनुसारं अमितशाहः योगी आदित्यनाथः च उभावपि नरेन्द्रमोदिन: उत्तराधिकारिरूपेण दृश्येते। अमितशाहस्य लाभाय योगि-आदित्यनाथस्य राजनैतिकजीवनस्य समाप्त्यर्थं काचित् योजना कृता इति आरोपाः आसन्।  द्वयो: आन्तरिकस्पर्धा, असहमतिः च बहुकालात् प्रचलति। विशेषतः मोदी-शाहयोः विश्वसनीयः पूर्व-आईएएस-अधिकारी ए.के.शर्मा मुख्यमन्त्रित्वेन योगिन: स्थाने भवेत् इति योजना आसीत्। राजनैतिकसूत्राणां अनुसारं उत्तरप्रदेशे किञ्चित्कालपूर्वं आयोजिते विधानसभानिर्वाचने भाजपद्वारा सत्तां प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहन् सेवानिवृत्तः वरिष्ठः सर्वकारीयः अधिकारी एके शर्मा इत्ययं चर्चायां आसीत्। सः नरेन्द्रमोदी-अमितशाहयोः विश्वसनीय-अधिकारिषु अन्यतमः आसीत्। अमितशाहस्य मतं यत् आनन्दीबेनपटेलः योगी आदित्यनाथः च उत्तरप्रदेशे गणविभाजनं कारयन्ति। सूचनादातॄणां मते गुजरातदेशे प्रचलन्ती अविश्वासराजनीतिः अधुना उत्तरप्रदेशं प्राप्ता अस्ति। फलतः योगिना अनुशंसितानां अभ्यर्थीनां अपि लोकसभानिर्वाचने चिटिका न प्राप्ता। आसनवितरणे अपि द्वयो: कलहेन योग्या योजना न जाता तस्य परिणामरूपेण अयोध्या(फैजाबाद)सदृशे स्थाने अपि दलेन कटुस्वादः आस्वादित:। वाराणस्यामपि यथोचितं विजय: न प्राप्त:।

अरविन्दशर्मा १९८८ त: IAS अधिकारी अस्ति। सः सम्प्रति उत्तरप्रदेशस्य मन्त्रिमण्डलमन्त्रिरूपेण कार्यं कुर्वन् अस्ति। पूर्वं तेन गुजरातराज्ये नैकासु योजनासु नरेन्द्रमोदिना सह महत्तपूर्णं कार्यं कृतम् आसीत्। २००१ तमे वर्षे मोदिसर्वकारे CMO इत्यत्र सचिवत्वेन नियुक्तः। सः २०२१ तमस्य वर्षस्य जनवरीमासे स्वैच्छिकं निवृत्तिम् अवाप्तवान्।

अद्यतनवार्ता

भारतम्

विश्वम्