Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयजनतादल: हरियाणाराज्ये तृतीयवारं सर्वकारं निर्मास्यति। राज्ये सततं तृतीयवारं सर्वकारनिर्माणं प्रथमवारं भविष्यति। दलेन आहत्य ९० आसनेषु ४८ आसनानि प्राप्य बहुमतं प्राप्तमस्ति । अस्मिन् समये गतनिर्वाचनस्य तुलनायां ८ आसनानां लाभः अभवत्। अपरपक्षे कोंग्रेसदलेन अपि ३७ आसनानि प्राप्तानि यत्र तेषां ६ आसनानां लाभ: अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्