Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भाजपशासितराज्यानां मुख्यमन्त्रिणाम् उपमुख्यमन्त्रिणां च सभा दलस्य मुख्यालये प्रचलति। सभायां प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाह:, दलाध्यक्ष: जेपी नड्डा तथा संगठनस्य प्रमुखनेतारः उपस्थिताः सन्ति। अस्मिन् सत्रे दले प्रचलत: आन्तरिकसंघर्षस्य, राज्ये जायमानानां कार्याणां, भविष्यत्कालीनयोजनानां च  चर्चा भविष्यति तथा च अस्मिन् वर्षे चतुर्षु राज्येषु – महाराष्ट्रे, हरियाणा, झारखण्डे, जम्मू-कश्मीरे च भविष्यमाणस्य विधानसभानिर्वाचनस्य रणनीत्याः विषये चर्चा भविष्यति। लोकसभानिर्वाचनस्य अनन्तरं एषा प्रथमा बृहत् सभा अस्ति, यस्मिन् दलस्य सर्वेऽपि प्रमुखनेतार: उपस्थिताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्