Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मालदीवस्य मुइज्जु-सर्वकारेण इजरायलगाजायुद्धे पेलेस्टाइनदेशस्य समर्थनं कृतम् अस्ति। इजरायलस्यपारपत्राणां नियमेषु परिवर्तनं कृत्वा इजरायलस्य पारपत्रस्य प्रतिबन्धं कर्तुं सर्वकारेण निर्णयः कृतः अस्ति। निर्णयस्य कार्यान्वयनानन्तरं इजरायलस्य नागरिकाः मालदीवदेशं प्रविष्टुं न शक्ष्यन्ति। प्रक्रियायाः त्वरिततायै मन्त्रिमण्डलेन विशेषसमित्याः अपि गठनं कृतम् अस्ति। तस्मिन् एव काले इजरायलदेशेन स्वनागरिकेभ्यः मालदीवदेशं न गन्तुम् इति सूचना प्रसारिता अस्ति। तत्र उपस्थिताः जनाः ततः शीघ्रं गच्छेयुः इत्यपि उक्तम्। इदानीं भारते उपस्थितः इजरायलराजदूतः इजरायलपर्यटकेभ्य: आह्वानं कृत्वा मालदीवस्य स्थाने भारतं आगन्तुम् आमन्त्रितवान् अस्ति। इजरायलीदूतावासेन लिखितं - अधुना मालदीवदेशे इजरायलस्य पर्यटकानाम् उपरि प्रतिबन्धः कृतः अस्ति। एतादृशे सति ते भारतस्य सुन्दरान् अद्भुतान् च समुद्रतटान् द्रष्टुं शक्नुवन्ति यत्र इजरायलपर्यटकानाम् अत्यन्तं भावपूर्णं स्वागतं भवति, अत्यन्तं सत्कारेण च। दूतावासद्वारा लक्षद्वीपस्य, अण्डमानस्य, निकोबारद्वीपस्य, गोवा-केरलस्य च कानिचन चित्राणि अपि स्वस्यसन्देशे समाविष्टानि सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्